Search

महालक्ष्मी पूजन – मिथिलापद्धति

725 भ्यूज

अथ महालक्ष्मीपूजाविधिः

शुभमुहूर्ते यजमानः स्वतः पीताम्बरधरः कृतनित्यक्रियः पूजास्थानमागत्य (१) पंचदेवता विष्णुं च संपूज्य कुशत्रय-जलान्यादाय –

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

इति पूजाद्रव्यम्, आत्मानं चाभिषिच्य पुष्पाण्यादाय –

ॐ ह्रीं आधारशक्तये कमलासनाय नमः ।

इत्यासनाय पुष्पाणि त्यक्त्वा आसनं परिगृह्य –

ॐ पृथ्वि त्वया घृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥

इत्यासने उपविश्य, संकल्पं कुर्यात् – कुशत्रयतिलजलान्यादाय –

ॐ अद्य अमुके मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य मम श्री अमुकशर्मणः ताम्र-रजत-हिरण्य-मणि-मुक्ता-प्रवाल-वस्त्राभरण-पुत्र-पौत्र-पशु-बन्धु-बान्धव-हस्त्यश्वरथ-प्रजामात्यप्रभृतिसमृद्ध्यर्थमणिमादिसिद्धिषडैश्वर्य-लक्ष्मीधन-धान्यादिसकलसम्पदासमृद्धिहेतवे धनपार्श्वस्थितचौराग्निराजदण्डादिषोड-शोपद्रवनिवारणार्थ यथासम्पादित सम्भारैर्महालक्ष्मीपूजनमहं करिष्ये ।

इति संकल्प्य पठेत् –

ॐ गणानान्त्वा गणपति‌्ँ हवामहे, प्रियाणान्त्वा प्रियपति‌्ँ हवामहे, निधीनान्त्वा निधिपति‌्ँ हवामहे, व्वसो मम आहमजानि गर्ब्भधमात्वमजासि गर्ब्भधम् ॥

———–
(१) सुखरात्रौ (कार्तिककृष्णामायाम्) प्रथममत्र अखण्डदीपं प्रज्वल्य, प्रणमेदनेन –

ॐ भो दीप देवीरूपस्त्वं धर्मसाक्षी ह्यविघ्नकृत् । शुभं करोतु कल्याणमारोग्यं धनसंपदाम् ॥
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ।स्वयं बुद्धिप्रकाशाय दीपज्योतिर्नमोऽस्तु ते ॥
———–

अथ शान्तिकलशस्थापनम्

शान्तिकलशस्थानं यथा – तत्र प्रथमं भूमिपूजनम् – कुशोदकेन भूमिमभ्युक्ष्य, सजलकुशाक्षतैः –

ॐ कलशाधारशक्ते इहागच्छ इह तिष्ठ इत्यावाह्य – ॐ कलशाधारशक्त्यै नमः ।

इति पंचोपचारैः संपूज्य कलशाधारभूमिं स्पृष्ट्वा –

ॐ भूरसि भूमिरस्यदितिरसि व्विश्वधाता व्विश्वस्य भुवनस्य धर्त्री पृथिवीं दृ‌्ँह पृथिवीं माही‌्ँसीः ॥

इति भूशुद्धिं कृत्वा –

ॐ मानस्तोके तनये मान आयुषि मानो गोषु मानोऽअश्वेषु रीरिषः । मानो व्वीरान् रुद्रभामिना व्वधीर्हविष्मन्तः सदमित्वा हवामहे ।

इति गोमयेन भूमिमुपलिप्य –

ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनुप्रसितिमायुषेधान् देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोसि ॥

इति तदुपरि यवान् विकीर्य –

ॐ आजिघ्रकलशं मत्वा त्वा व्विशन्त्विन्दवः । पुनरुर्ज्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा व्विशताद्रयिः ॥

इति यवोपरि कलशं स्थापयेत् । ततः –

ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्य स्कम्भसर्ज्जनीस्थो व्वरुणस्यऽऋतसदन्यसि व्वरुणस्यऽऋतसदनमसि व्वरुणस्यऽऋत सदनमासीद ॥

इति कलशोपरि नारिकेलं (पूगीफलं वा) दत्त्वा –

ॐ अम्बेऽअम्बिकेऽअम्बालिके नमानयति कश्चन । सशस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

इति कलशे आम्रपल्लवं दद्यात् । ततः –

ॐ प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा ।

इति कलशे ताम्बूलं दद्यात् । ततः –

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधारपृथिवीं द्यामुतेमां कस्मै देवाय हविषा व्विधेम् ॥

इति कलशे पञ्चरत्नं (१) क्षिपेत् । ततः –

ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनुप्रसितिमायुषेधान् देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोसि ॥

इति पूर्वोक्तमन्त्रेण दीपपात्रे यवं दत्त्वा –

ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा, सूर्य्यो ज्योतिर्ज्योतः सूर्य्यः स्वाहा, अग्निर्व्वर्च्चो ज्योतिर्व्वर्च्चः स्वाहा, सूर्यो व्वर्चो ज्योतिर्व्वर्च्चः स्वाहा, ज्योतिः सूर्य्यः सूर्य्यो ज्योतिः स्वाहा ॥

इति कलशोपरि पूर्वाभिमुखं प्रज्ज्वलितदीपं निदध्यात् ।

ततः प्राणप्रतिष्ठा । पुष्पाक्षतैः –

ॐ मनोजूतिर्जूषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञ‌्ँ समिमन्दधातु विश्वेदेवा स इह मादयन्तार्मो प्रतिष्ठ । ॐ शान्तिकलशाधिष्ठितदेवता इह सुप्रतिष्ठिता भवन्तु । इति प्रतिष्ठाप्य ॐ कलशाधिष्ठितगणेशादिदेवताभ्यो नमः । इति पञ्चोपचारैः सर्वान् देवान् एकदैव पूजयेत् ॥

ततो दशदिक्पालादि-देवतापूजनम् । तद्यथा – पुष्पाक्षतैः –

ॐ इन्द्रादिदशदिक्पाला इहागच्छत इह तिष्ठत । इत्यावाह्य, इन्द्रादिदशदिक्पालेभ्यो नमः ॥

इति पञ्चोपचारैः पूजयेत् । ततः पुष्पाक्षतैः –

ॐ साधिदैवतसप्रत्यधिदैवतविनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत । इत्यावाह्य, नवग्रहेभ्यो नमः ॥

इति पञ्चोपचारैः पूजयेत् ।

————-
(१) रत्नानामभावे स्वर्णं कर्षार्धमेव च । सुवर्णस्याप्यभावे तु आज्यं देयं विचक्षणैः ॥ इति स्मृतिः ।
————-

अथ महालक्ष्मीपूजनम्

तत्र यजमानः (प्रतिमाऽभावे) पीतवस्त्रोपरि पीताक्षतानास्तीर्य तत्र यथाशक्ति द्रव्यं संस्थाप्य तदुपरि महालक्ष्मीम् आवाहयेत् । (प्रतिमासत्त्वे प्रतिमायां पीतवस्त्रपोटलिकां कृत्वा पटसूत्रेण संवेष्ट्य अष्टदले पद्मपत्रे वा तां स्थापयेतं ।)

आवाहनम् – रक्त (१) पुष्पाण्यादाय –

ॐ समुद्रतनया देवीं सर्वाभरणभूषिताम् । पद्मनेत्रां विशालाक्षीं लक्ष्मीमावाहयाम्यहम् ॥ लक्ष्मीं विष्णुप्रीतिकरां देवीं देवकार्यार्थसाधिनीम् । कुबेरधनदात्रीं च लक्ष्मीमावाहयाम्यहम् ॥ क्षीरसागरसम्भूतां विष्णुदेहसमाश्रिताम् । सर्वाभीष्टप्रदां देवीं लक्ष्मीमावाहयाम्यहम् ॥

ध्यानम्

ॐ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया । लक्ष्मीदिव्यैर्गजेन्द्रैर्मणिगणखचितैः, स्नापिता हेमकुम्भैर्नित्यं सा पद्महस्ता वसतु मम गृहे सर्वमाङ्गल्ययुक्ता ॥

इति ध्यात्वा –

ॐ भूर्भुवः स्वर्लक्ष्मि इहागच्छ इह तिष्ठ इत्यावाहाह्य ॥

पाद्यम् –

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणा मुम्म इषाण सर्वलोकम्म इषाण ॥ इदं पाद्यं भगवत्यै श्रीलक्ष्म्यै नमः ॥

गन्धम् –

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ इदं श्रीखण्डचन्दनं भगवत्यै श्रीलक्ष्म्यै नमः ।

सिन्दूरम् –

ॐ सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितम् । गृहाण वरदे लक्ष्मि भूषणानि प्रयच्छ मे ॥ इदं सिन्दूराभरणं भगवत्यै श्रीलक्ष्म्यै नमः ॥

पुष्पम् –

ॐ मालती-बकुलादीनि मल्लिका गन्धसंयुता । मया हृतानि पुष्पाणि प्रगृह्य कमलालये ॥ एतानि पुष्पाणि भगवत्यै श्रीलक्ष्म्यै नमः ॥

दूर्वा –

ॐ काण्डात् काण्डात् प्ररोहन्ति परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥ एतानि दूर्वादलानि भगवत्यै श्रीलक्ष्म्यै नमः ।

बिल्वपत्रम् –

ॐ त्रिदलान्यखण्डानि बिल्वपत्राणि सुन्दरि । पूजयेत् परया भक्त्या महालक्ष्मीं सुखप्रदाम् ॥ एतानि बिल्वपत्राणि भगवत्यै श्रीलक्ष्म्यै नमः ।

धूपः –

ॐ वनस्पति-रसो दिव्यो गन्धाढ्यः सुमनोहरः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ एष धूपः भगवत्यै श्रीलक्ष्म्यै नमः ।

दीपः –

ॐ घृतवतिंसमायुक्तं वह्निना दीपितं मया । दीपं हृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥ एष दीपः भगवत्यै श्रीलक्ष्म्यै नमः ।

फलम् –

ॐ याः पलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्तानो मुञ्चत्व‌्ँ हसः ॥ एतानि फलानि भगवत्यै श्रीलक्ष्म्यै नमः ।

नैवेद्यं –

ॐ घृतपकहविष्यान्नं पायसं वा च शर्करा । नानाविधं च नैवेद्यं लक्ष्मीर्मे प्रगृह्यताम् ॥ एतानि नानाविधनैवेद्यानि भगवत्यै श्रीलक्ष्म्यै नमः ।

आचमनीयं –

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलम् । आचम्यतां मया दत्तं गृहीत्वा परमेश्वरि ॥ इदमाचमनीयं भगवत्यै श्रीलक्ष्म्यै नमः ।

द्रव्यम् –

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधारपृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम ॥ ॐ महालक्ष्मीर्मे प्रीयताम् ।

इति पठित्वा द्रव्यमर्पयेत् ।

————–
(१) महालक्ष्मिपूजने शतपत्रं (कमलपुष्पम्) अतिप्रशस्तमिति न विस्मर्तव्यम् ।

————–

अथ अणिमादि पूजा

ततः महालक्ष्म्याः दक्षिणे (१-४) वामे (५-८) च पार्श्वे अणिमाद्यष्टसिद्धि-पूजनं कुर्यात् । तद्यथा –

१. अणिमा – ॐ अणिमायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ सिन्दूरस्थाणिमा पूज्या पीतवर्णा चतुर्भुजा । वरवज्रधरा दक्षे वामेऽभयनिधाभृत् ॥

२. महिमा – ॐ महिमायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ महिमां महिषारूढां पूजयेत् कनकप्रभाम् । अङ्गाभयधरा वामे दक्षे शक्त्याक्षमालिनीम् ॥

३. गरिमा – ॐ गरिमायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ कनकादिनिधिः पूज्यः कर्मस्था गरिमा तता । गदाम्बरधरा दक्षे वामेऽभयनिधानभृत् ॥

४. लघिमा – ॐ लघिमायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ नक्रस्था लघिमा श्यामा पूजनीया चतुर्भुजा । नागपाशधरा दक्षे वामेऽभयवारिता ॥

५. प्राप्तिः – ॐ प्राप्त्यै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ पूजनीया वृषारूढा प्राप्तिस्तुहिनसन्निभा । शक्तिशूलधरा दक्षे वामे सपरिवारजा ॥

६. प्रकाम्या – ॐ प्राकाम्यै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ छागलस्थातिरक्ताङ्गी स्यात् पूज्या प्रतिकामतः । शक्त्यक्षमालिनी दक्षे वामे मन्दिरकुण्डिका ॥

७. ईशिता – ॐ ईशितायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ पूज्या प्रेतगता नीला विद्युत्पुञ्जनिभेशिता । वरशंकुधरा दक्षे वामे साभयकर्णिका ॥

८. वशिता – ॐ वशितायै नमः । इति पञ्चोपचारैः सम्पूज्य, पुष्पाञ्जलिः – ॐ पूज्या हि वशिता धूम्रा मृगस्था सा चतुर्भुजा । सारबिन्दुधरा दक्षे वामे वरसरोजिनी ॥

अथ पुष्पाञ्जलिः

ॐ नन्दे नन्दपुरावासे वसुभिश्चाप्नुहि प्रजाः । जाय भार्गवि दायादैः पूर्णकामान् मनोरथान् ॥

पूर्णेङ्गिरसि दायादैः पूर्णकामान् मनोरथान् । भद्रे काश्यपि देवेशि प्रजानीं भद्रमावह ॥

सवबीजसमायुक्ते सर्वगन्धौषधीर्युते । सुव्रते सुमुखे देवि गृहे भार्गवि रम्यताम् ॥

प्रजापतिस्तुते देवि चतुरस्रे महापथे । सुव्रते सुमुखे देवि गृहे भार्गवि रम्यताम् ॥

अव्यङ्गे चाक्षते पूर्णे पुण्ये चाङ्गिरसंस्तुते । अक्षरे त्वं प्रिये श्रेष्ठे प्रतिज्ञां गृहिणां कुरु ॥

ग्राम्याद् ग्रामपुरश्चापि तथा स्वामिपुरे गृहे । मनुष्यपशुहस्त्यश्वधनवृद्धिकरी भव ॥

एष पुष्पाञ्जलिः ॐ साङ्गाय सपरिवाराय भगवत्यै श्रीलक्ष्म्यै नमः ।

ततः सति सम्भवे  २८३ पृष्ठोक्तं शङ्करोक्तं कनकधारास्तोत्रम् पठित्वा – ॐ श्रीँ ह्रीँ श्रीँ महालक्ष्म्यै नमः स्वाहा । इति मन्त्रेण अष्टोत्तरशतम् हवनञ्च कुर्यात् ।

अथ संछिप्तहवनविधिः 

कुशत्रयतिलजलान्यादाय – ॐ अद्य अमुके मासि अमुके पक्षे अमुकतिथौ साङ्गमहालक्ष्मीपूजासिद्ध्यर्थं श्रीमहालक्ष्मीप्रीतये अष्टोत्तरशतम् आज्याहुतीः अहं होष्यामि । इति संकल्प्य हस्तमात्रां भूमिं कुशैः परिसमूद्य तान् कुशान् ऐशान्यां परित्यज्य गोमयेन तपलिप्य तदुपरि प्रादेशमिताः तिस्रो रेखाः उल्लिख्य ताभ्यो मुद्‌मुदूधृत्य जलेन अभ्युक्ष्य कांस्यपात्रेण “ॐ भूर्भु स्वः” इत्युचार्य अग्निमुपसमाधाय स्रुवेण आज्याहुतीर्जुहुयात् –

ॐ भूः स्वाहा, इदं भूः । ॐ भुवः स्वाहा, इदं भुवः । ॐ स्वः स्वाहा, इदं स्वः ।

ततः वह्नौ लक्ष्मीं ध्यात्वा –

“ॐ श्रीँ महालक्ष्म्यै नमः स्वाहा”

इति मूलमंत्रेण अष्टोत्तरशतम् आज्याहुतीर्जुहुयात् ।

ततः पूर्णाहुतिः – ताम्बुल फल-पुष्प-घृतपूर्णस्रुवेण –

ॐ मूर्धानं दिवोऽअरतिं पृथिव्या वैश्वानर मृत आजातमग्निं कवि‌्ँ सम्राजमतिथिञ्जनानामासन्ना पात्रं जनयन्त देवाः स्वाहा, ॐ वसुभ्यः स्वाहा । ततः स्रुवेण भस्म आनीय त्र्यायुषं कुर्यात् – ॐ त्र्यायुषं जमदग्नेः इति ललाटे । ष कश्यपश्य त्र्यायुषम्, इति ग्रीवायाम् । ॐ यद्देवेषु त्र्यायुषम्, इति दक्षिणबाहुमूले । ॐ तन्नोऽस्तु त्र्यायुषम्, इति हृदि ।

अथ विसर्जनम्

स्तोत्रादिकं पठित्वा पुष्पाञ्जलिम्, आरातिकं च विधाय करकच्छपिकां बध्वा प्रार्थयेत् –

ॐ रूपं देहि जयं देहि भाग्यं लक्ष्मि प्रदेहि मे । धर्मान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे ॥

ॐ विधिहीनं क्रियाहीनं भक्तिहीनं यदचिंतम् । पूर्ण भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥

शक्नुवन्ति न ते पूजां कर्तुं स्वर्गस्थिताः सुराः । अहं किं वा करिष्यामि मृत्युधर्मा नरोऽल्पधीः ॥

न जानेऽहं स्वरूपं ते न शरीरं न वा गुणम् । एकामेव हि जानामि भक्तिं त्वच्चरणाब्जयोः ॥

ततो विसर्जनम् –

ॐ इमां पूजां मया देवि यथाशक्ति निवेदिताम् । महालक्ष्मि जगन्मातः मत्स्थाने तिष्ठ पूजिते ॥

ॐ सांगसपरिवारे भगवति, श्रीमहालक्ष्मि पूजिताऽसि प्रसीद, मयि रमस्व ॥

ॐ अणिमाद्यष्टसिद्धयः पूजिताः स्थ क्षमध्वं स्वस्थानं गच्छत ॥

ॐ कलशाधिष्ठितदेवताः पूजिताः स्थ क्षमध्वं स्वस्थानं गच्छत ॥

ततो कर्मदक्षिणा – कुशत्रय-तिल-जलान्यादाय –

ॐ अद्य (अस्यां रात्रौ) कृतैतत्‌सांगसपरिवार श्रीमहालक्ष्मिपूजनकर्मप्रतिष्ठार्थम्, एतावद्द्रव्यमूल्यकहिरण्यम् अग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे । ॐ स्वस्तीति प्रतिवचनम् ।

अथ शान्तिकलशमुत्थापयेदनेन –

ॐ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे । उपप्रयन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सखा ॥

ततः ९० पृष्ठोक्ताभिषेकमन्त्रेण यजमानम् अभिषिञ्चेत् । तद्दिने महालक्ष्मीप्रीत्यर्थं नृत्यगीतवाद्यदीपमालिकाद्युत्सवपुरःसरं रात्रिशेषं नयेत् । ब्राह्मणांश्च भोजयेत् ।

पृष्ठ २८३ सँ ‘कनकधारास्तोत्रम्’ –

।। श्री कनकधारा स्तोत्रम् ।।
अङ्गं हरेः पुलकभूषण माश्रयन्ती भृगांगनैव मुकुलाभरणं तमालम् ।
अंगीकृताखिल विभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवताया:॥१॥
मुग्धां मुहुर्विदधती वदने मुरारै: प्रेमत्र पाप्रणिहितानि गतागतानि।
माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं दिशतु सागर सम्भवाया: ॥२॥
विश्वामरेन्द्रपदविभ्रमदानदक्षमानन्द हेतु रधिकं मधुविद्विषोपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धमिन्दोवरोदर सहोदरमिन्दिराय:॥३॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दम निमेषमनंगतन्त्रम्।
आकेकर स्थित कनी निकपक्ष्म नेत्रं भूत्यै भवेन्मम भुजंगरायांगनाया:॥४॥
बाह्यन्तरे मधुजित: श्रितकौस्तुभै या हारावलीव हरि‍नीलमयी विभाति।
कामप्रदा भगवतो पि कटाक्षमाला कल्याण भावहतु मे कमलालयाया:॥५॥
कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदंगनेव्।
मातु: समस्त जगतां महनीय मूर्तिभद्राणि मे दिशतु भार्गवनन्दनाया:॥६॥
प्राप्तं पदं प्रथमत: किल यत्प्रभावान्मांगल्य भाजि: मधुमायनि मन्मथेन।
मध्यापतेत दिह मन्थर मीक्षणार्द्ध मन्दालसं च मकरालयकन्यकाया:॥७॥
दद्याद दयानुपवनो द्रविणाम्बुधाराम स्मिभकिंचन विहंग शिशौ विषण्ण।
दुष्कर्मधर्ममपनीय चिराय दूरं नारायण प्रणयिनी नयनाम्बुवाह:॥८॥
इष्टा विशिष्टमतयो पि यथा ययार्द्रदृष्टया त्रिविष्टपपदं सुलभं लभंते।
दृष्टि: प्रहूष्टकमलोदर दीप्ति रिष्टां पुष्टि कृषीष्ट मम पुष्कर विष्टराया:॥९॥
गीर्देवतैति गरुड़ध्वज भामिनीति शाकम्भरीति शशिशेखर वल्लभेति।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै तस्यै ‍नमस्त्रि भुवनैक गुरोस्तरूण्यै ॥१०॥
श्रुत्यै नमोस्तु शुभकर्मफल प्रसूत्यै रत्यै नमोस्तु रमणीय गुणार्णवायै।
शक्तयै नमोस्तु शतपात्र निकेतानायै पुष्टयै नमोस्तु पुरूषोत्तम वल्लभायै॥११॥
नमोस्तु नालीक निभाननायै नमोस्तु दुग्धौदधि जन्म भूत्यै ।
नमोस्तु सोमामृत सोदरायै नमोस्तु नारायण वल्लभायै॥१२॥
सम्पतकराणि सकलेन्द्रिय नन्दानि साम्राज्यदान विभवानि सरोरूहाक्षि।
त्व द्वंदनानि दुरिता हरणाद्यतानि मामेव मातर निशं कलयन्तु नान्यम्॥१३॥
यत्कटाक्षसमुपासना विधि: सेवकस्य कलार्थ सम्पद:।
संतनोति वचनांगमानसंसत्वां मुरारिहृदयेश्वरीं भजे॥१४॥
सरसिजनिलये सरोज हस्ते धवलमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥१५॥
दग्धिस्तिमि: कनकुंभमुखा व सृष्टिस्वर्वाहिनी विमलचारू जल प्लुतांगीम।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणी ममृताब्धिपुत्रीम्॥१६॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरां गतैरपाड़ंगै:।
अवलोकय माम किंचनानां प्रथमं पात्रमकृत्रिमं दयाया : ॥१७॥
स्तुवन्ति ये स्तुतिभिर भूमिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते बुधभाविताया:॥१८॥
।। इति श्री कनकधारा स्तोत्रं सम्पूर्णम् ।।
पृष्ठ ९० सँ अभिषेक मंत्र –
ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवोजगन्नाथस्तथा सङ्कर्षणो विभुः ॥

प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितशेषो दिक्पालाः पान्तु ते सदा ॥
कीतिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ॥

एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः । देवदानव गन्धर्वा यक्षराक्षसपन्नगाः ॥
मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । ओषधानि च रत्नानि कालस्यावयवाश्च ये ॥
सरितः सागराश्शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥इति श्रीमहालक्ष्मीपूजाविधिः ॥

हरिः हरः !!

Related Articles