Search

जन्मदिनक असल कृत्यः मिथिलाक मौलिक परम्परा अनुसार जन्मदिन पर कि सब करबाक चाही

4 भ्यूज

रीति-रिवाज आ परम्परा

“वर्षकृत्य” मिथिलाक जीवनपद्धति मे समाहित पांडित्य परम्पराक समेटल कृति (पुस्तक) थिक । पंडित रामचन्द्र झा द्वारा सम्पादित वर्षकृत्य मे ‘इन्दुमती’ टिप्पणी सेहो देल गेल अछि । टिप्पणीक अर्थ भेल जे पूजा-विधानक रहस्य पर सहज भाषा मे विवरण लिखल अछि । आइ संकलक प्रवीण नारायण चौधरीक जन्मदिन – ५ सितम्बर, संगहि शिक्षक दिवस तथा प्रवीणक रुचि मे अपन मौलिक रीति-रिवाज आ परम्परा सभक वैज्ञानिक पक्षक अनुसन्धानकार्य तहत सेहो ‘जन्मदिनकृत्य’ केँ सम्पादक झा द्वारा देल गेल यथारूप (संस्कृत) मे राखि रहल छी । एकर अनुवाद व विश्लेषण कार्य करब शेष अछि, जे पछातिकाल करबाक निर्णय कएने छी ।

– संकलक प्रवीण नारायण चौधरी, विराटनगर, ५ सितम्बर २०२६ । शनि दिन – कृष्णाष्टमीक प्रात – विराटनगरक ऐतिहासिक रथयात्राक दिन पर ई पोस्ट कय रहल छी । 

अथ जन्मदिनकृत्यम्

तत्र कृतनित्यक्रियः पूजास्थानमागत्य पञ्चदेवताः विष्णु च सम्पूज्य कुशत्रयतिलजलान्यादाय –

ॐ अद्यामुके मास्यमुके पक्षेऽमुकजन्मतिथावमुकगोत्रस्य मम श्री अमुकशर्मणः उपस्थितशरीराऽविरोधेन दीर्घायुष्ट्वकामः सपरिवारमार्कण्डेयादीनां पूजनमहङ्करिष्ये ।

इति सङ्कल्प्य प्रथमतो मङ्गलार्य –

ॐ भूर्भुवः स्वर्गणपते इहागच्छ इह तिष्ठ इत्याबाह्य एतानि पाद्यादीनि ॐ गणपतये नमः ।

एवं गन्धादिभिः पूजयेत् । ततः –

ॐ लम्बोदर महाकाय सर्वोपद्रवनाशक ।
त्वत्प्रसादादविघ्नेन दीर्घायुष्यं भवेन्मम ॥
आयुर्वेहि यशो देहि श्रियं देहि पलं तथा ।
पुत्रं पौत्रं प्रपौत्रश्च देहि मे गणनायक ॥
वक्तुण्ड महाकाय सूर्यकोटिसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

ततः –

ॐ सूर्यादिनवग्रहा इहागच्छत इह तिष्ठत ।

इत्यावाह्य –

एतानि पाद्यादीनि ॐ सूर्यादिनवग्रहेभ्यो नमः ।

एवं गन्धादिभिः सम्पूज्य प्रार्थवेदनेन –

ॐ सूर्यः सोमोऽङ्गारकज्ञौ गुरुभृग्वर्किराहवः ।
केतुश्चायुः प्रयच्छन्तु सानु कूला महा मम ॥

ततो गौर्यादिषोडशमातृः पूजयेत् । तत्र क्रमः –

ॐ गौरि इहागच्छ इह तिष्ठ ।

इत्यावाह्य –

एतानि पाद्यादीनि ॐ गौर्यै नमः ।

इति गन्धादिभिः पूजयेत् ।

एवं –

ॐ पद्मे इहागच्छ इह तिष्ठ । ॐ पद्माये नमः ।
ॐ शचि इहागच्छ इह तिष्ठ । ॐ शच्यै नमः ।
ॐ मेधे इहागच्छ इह तिष्ठ । ॐ मेधायै नमः ।
ॐ सावित्रि इहागच्छ इह तिष्ठ । ॐ सावित्र्यै नमः ।
ॐ विजये इहागच्छ इह तिष्ठ । ॐ विजयायै नमः ।
ॐ जये इहागच्छ इह तिष्ठ । ॐ जयायै नमः ।
ॐ देवसेने इहागच्छ इह तिष्ठ । ॐ देवसेनायै नमः ।
ॐ स्वधे इहागच्छ इह तिष्ठ । ॐ स्वधायै नमः ।
ॐ स्वाहे इहागच्छ इह तिष्ठ । ॐ स्वाहायै नमः ।
ॐ मातर इहागच्छत इह तिष्ठत । ॐ मातृभ्यो नमः ।
ॐ लोकमातर इहागच्छत इह तिष्ठत । ओं लोकमातृभ्यो नमः ।
ॐ धृते इहागच्छ इह तिष्ठ । ॐ धृत्यै नमः।
ॐ पुष्टे इहागच्छ इह तिष्ठ । ॐ पुष्ट्यै नमः ।
ॐ आत्मकुलदेवते इहागच्छ इह तिष्ठ । ॐ आत्मकुलदेवतायै नमः ।

इति सर्वान् पञ्चोपचारैः पूजयेत् । ततो गन्धपुष्पाक्षतैः –

(१) ॐ गणेशाय नमः, ॐ दुर्गायै नमः, ॐ कुलदेवतायै नमः, ॐ गुरुभ्यो नमः, ॐ अग्नये नमः, ॐ विप्रेभ्यो नमः, ॐ मातृभ्यो नमः, ॐ पितृभ्यो नमः, ॐ सूर्याय नमः, ॐ सोमाय नमः, ॐ कुजाय नमः, ॐ बुधाय नमः, ॐ गुरवे नमः, ॐ शुकाय नमः, ॐ शनये नमः, ॐ राहवे नमः, ॐ केतवे नमः, ॐ पद्माभूतेभ्यो नमः, ॐ कालाय नमः, ॐ युगाय नमः, ॐ संवत्सराय नमः, ॐ मासाय नमः, ॐ पक्षाय नमः ।

इति पञ्चोपचारैः पूजयेत् । ततः –

ॐ अस्मष्जन्मतिथे इहागच्छ इह तिष्ठ ।

इत्यावाह्य – ॐ अस्मष्जन्मतिथये नमः ।

ॐ अस्मष्जन्मनक्षत्र इहागच्छ इह तिष्ठ ।

ॐ अस्मष्जन्मनक्षत्राय नमः ।

ॐ अस्मष्जन्मराशे इहागच्छ इह तिष्ठ ।

ओं अस्मष्जन्मराशये नमः ।

इति पञ्चोपचारैः पूजयेत् । ततः –

ॐ शिवायै नमः, ॐ संभूत्यै नमः, ॐ प्रीत्यै नमः, ॐ सन्नत्यै नमः, ॐ भद्रायै नमः, ॐ अनसुयायै नमः, ॐ क्ष्मायै नमः, ॐ विष्णवे नमः, ॐ भद्रायै नमः, ॐ इन्द्राय नमः, ॐ अग्नये नमः, ॐ यमाय नमः, ॐ निर्ऋतये नमः, ॐ वरुणाय नमः, ॐ वायवे नमः, ॐ धनदाय नमः, ॐ ईशानाय नमः, ॐ अनन्ताय नमः, ॐ ब्रह्मणे नमः । इति पञ्चोपचारैः पूजयेत् ।

अथ षष्टिकापूजा –

ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः, इति कुंकुमेन ताम्रादिपात्रे षट्‌कोणयन्त्रं विलिख्य पुष्पहस्तेन करकच्छपिकां वद्ध्वा –

ॐ चतुर्भुजां महादेवीं तुङ्गपीनस्तनीं शिवाम् ।
मयूरवाहनारूढां पीतकौशेयवाससम् ॥
प्रफुल्लपद्मवदनामर्कपद्मासनस्थिताम् ।
सर्वाङ्गभूषितां सौम्यां नीलोत्पलदलदृशम् ॥
स्रवत्पीयुषवद‌नां वराभयकरद्वयाम् ।
वामेन कौङ्कमं पात्रं दक्षिणेन व लेखनीम् ॥
धारयन्तीमङ्कगतं स्कन्दं प्रेम्णा च पश्यतीम् ॥

इति ध्यात्वा गंधपुष्पाक्षतादिभिः –

ॐ एह्येहि देवि पद्माक्षि षष्ठि षट्‌कृत्तिकालये ।
आगच्छ वरदे मातः पश्य मां सौम्यचक्षुषा ।

ॐ ह्रीं षष्ठीदेवि इहागच्छ इह तिष्ठ ।

इत्यावाह्य, अर्घमादाय –

ॐ जातिसिद्धार्थसहितं दूर्वादलतिलान्वितम् ।
सर्वाद्य षष्ठिके मातरष्टाङ्गार्घः प्रगृह्यताम् ॥

एषोऽर्घः ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

ततः –

ॐ गङ्गादिसर्वतीर्थादानीतं भक्त्या महेश्वरि ।
स्नानं कुरु जगन्मातः सर्वाङ्गसुन्दरे शुभे ॥

इदं स्नानीयं –

ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

ततः वस्त्रमादाय –

ॐ तन्तुना च समाहां कौसुम्भेन सुरञ्जितम् ।
वस्त्रकं ते ददाम्यद्य सौभाग्यं तन्तुवर्द्धनम् ॥

इदं वस्त्रं ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

इदमनुलेपन् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

इदमक्षतम् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

ततः पुष्पाण्यादाय –

ॐ मालतीचम्पकञ्जातीशतवर्गयुतानि च ।
पुष्पाणि तव पूजार्थमानीतानि भृहाण मे ॥

एतानि पुष्पाणि ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

ततः –

इदं माल्यम् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

एष धूपः ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

एष दीपः ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

एतानि नानाविधनैवेद्यानि ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

इदमाचमनीयम् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

इदं ताम्बूलम् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

इदं फलम् ॐ ह्रीं श्रीं षष्ठीदेव्यै नमः ।

ततः सपुष्पाञ्जलिः –

ॐ जगन्मातर्जगद्धात्रि जगदानन्दः कारिणि ।
प्रसीद मम कल्याणि नमोस्तु षष्ठीदेवते ।

एष पुष्पाञ्जलिः ॐ ह्रीं श्रीं पष्ठीदेव्यै नमः ।

इति संपूज्य –

ॐ रूपन्देहि यशो देहि भाग्यं भगवत्ति देहि मे ।
पुत्रान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे ॥

इत्यनेन वरं प्रार्थ्य प्रणमेत् ।

ततो गन्धपुष्पाक्षतैः –

ॐ ह्राँ श्राँ हृदयाय नमः, हृदयं पूजयामि ।
ॐ ह्रीं श्रीं शिरसे स्वाहा, शिरः पूजयामि ।
ॐ ह्रूँ श्रूँ शिखायै वषट्, शिखां पूजयामि ।
ॐ ह्रैँ श्रैँ कवचाय हुँ, कवचं पूजयामि ।
ॐ हौं श्रौं नेत्राभ्यां वौषट्, नेत्रे पूजयामि ।
ॐ ह्रः श्रः अस्त्राय फट्, अस्त्रं पूजयामि ।

ततः –

ॐ शिवायै नमः, ॐ संभूत्यै नमः, ॐ प्रीत्यै नमः, ॐ सन्नत्यै नमः, ॐ अनुसूयायै नमः, ॐ मायायै नमः ।

इति षट्‌कृत्तिकाः पूजयेत् ।

ततः प्रार्थयेत् –

ॐ यूयं शिवा याः षड्द्देव्यः स्कन्द्रक्षापरायणाः ।
दीर्घायुषं मां कुरुध्वं तथा च जन्मवासरे ॥

अथ तदुत्सङ्गे स्कन्द-प्रद्युम्नौ पूजयेत् –

ॐ स्कन्द इहागच्छ इह तिष्ठ । ॐ स्कन्दाय नमः ।

इति पश्चोपचारैः पूजयेत् ।

एवं प्रद्युम्नमावाह्य –

ॐ प्रद्युम्नाय नमः ।

इति पाद्यादिभिः सम्पूज्य प्रार्थयेत् –

ॐ सेनापते पावकिने नमोस्तु कृपापरीतामलदिव्यमूर्ते ।
कृपामयो जज्ञ इवामलस्तं देवेश षष्ठीश नमो नमस्ते ॥
कार्तिकेय महाभाग गौरीहृदयनन्दन ।
सर्वतो रक्ष मां वीर कुरु दीर्घायुषं सदा ॥
ॐ प्रकृष्टैश्वर्यसम्पन्नः प्रद्युम्नस्त्वं प्रकीर्त्यसे ।
तस्माज्जन्मदिने चाद्य कुरु मां त्वं चिरायुषम् ॥

ततः पुनः –

ॐ मम जन्मनक्षत्राय नमः०, जन्मराशये नम०ः, जन्मतिथ्यै नमः०, जन्मवासराय नमः०, जन्मपक्षाय नमः०, जन्मलग्नाय नमः०, जन्मसंवत्सराय नमः०, जन्मऋतवे नमः०, जन्मयुगाय नमः०, जन्ममासाय नमः०, जन्ममुहूर्ताय नमः०, जन्मयोगाय नमः, जन्मायनाय नमः०, जन्मकरणाय नमः०, जन्मसमयाय नमः०, जन्मानुसूयायै नमः०,

इति पञ्चोपचारैरर्चयेत् । ततः प्रार्थयेत् –

ॐ जन्मर्क्षराशितिथिवासरपक्षलग्नसंवत्सरर्तुयुगमासमुहूर्तयोगाः ।
जन्मायनं करणकालवसुन्धराद्याः सम्पूजिताश्च वितरन्तु सुदीर्घमायुः ॥

ततोऽष्टदलं विलिख्य तदुपरि अश्वत्थामादीन् सम्पूज्य मार्कण्डेयं पूजयेत् । तत्र क्रमः –

ॐ अश्वत्थामन् इहागच्छ इह तिष्ठ ।

इत्यावाह्य –

एतानि पाद्यादीनि ॐ अश्वत्थाम्ने नमः ।

इति गन्धादिभिः संपूज्य प्रार्थयेदनेन –

ॐ द्रोणपुत्र महाभाग रुद्रतेजः समुद्भव ।
भवायुर्वरदो मे त्वमश्वत्थामन्नमोस्तु ते ॥

ततः –

ॐ बले इहागच्छ इह तिष्ठ ।

इत्याबाह्य –

ॐ बलये नमः, इत्यनेन पाद्यादिभिः सम्पूज्य प्रार्थयेदनेन –

ॐ दैत्येन्द्रकुलसंभूत दानयज्ञक्रियारत ।
प्रपन्नः शरणं त्वाहं दीर्घमायुः प्रयच्छ मे ॥

ततः –

ॐ व्यास इहागच्छ इह तिष्ठ ।

इत्यावाह्य –

ॐ व्यासाय नमः, इत्यनेन पाद्यादिभिः सम्पूज्य प्रार्थयेदनेन –

ॐ सम्प्रत्यनागतातीत ज्ञानाधार तपोनिधे ।
नारायणांशसम्भूत ममाद्य वरदा भव ॥

ततः ‍-

ॐ हनुमान्निहागच्छ इह तिष्ठेत्याबाह्य ॐ हनुमते नमः, इत्यनेन पाद्याद्भिः सम्पूज्य प्रार्थयदनेन –

ॐ अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनुमन् पाहि मां सदा ॥

ततः ॐ विभीषण इहागच्छ इह तिष्ठ, ॐ विभीषणाय नमः इत्यनेन पाद्यादिभिः सम्पूज्य प्रार्थयेदनेन –

ॐ विभीषण नमस्तुभ्यं रामपादाब्जसेवक ।
आयुरारोग्यमैश्वर्य देहि पौलस्त्यनन्दन ॥

ततः ॐ कृप इहागच्छ इह तिष्ठ ॐ कृपाय नमः, इत्यनेन पाद्यादिभिः सम्पूज्य प्रार्थयेदनेन –

ॐ द्विजेन्द्र भरताचार्य सर्वशास्त्र विशारद ।
शरणं त्वां प्रपन्नोस्मि कृप मां रक्ष सर्वदा ॥

ततः ॐ परशुराम इहागच्छ इह तिष्ठ, ॐ परशुरामाय नमः, इत्यनेन पाद्यादिभिः सम्पूज्य प्रार्थयेदनेन –

ॐ रेणुकेय महावीर्य कार्तवीर्यार्जुनान्तक ।
आयुः प्रयच्छ मे राम जामदग्न्य नमोस्तु ते ॥

ततो मार्कण्डेयं (१) पूजयेत् ।

अक्षतेन – ॐ मार्कण्डेय इहागच्छ इह तिष्ठेत्याबाह्य एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि०, इदमनुलेपनम्०, इदमक्षतम्०, एतानि पुष्पाणि०, इदं माल्यम्०, एतानि दूर्वादलानि०, एतानि बिल्वपत्राणि०, एष धूपः०, एष दीपः०, एतानि वंशपत्राणि०, एतानि गन्धपुष्पधूपदीपताम्बूलनानाविधनैवेद्यानि०, इदमाचमनीयम् ॐ मार्कण्डेयाय नमः । ततः पुष्पाञ्जलिः –

ॐ आयुःप्रद महाभाग सोमवंशसमुद्भव ।
महातपो मुनिश्रेष्ठ मार्कण्डेय नमोस्तु ते ॥

एष पुष्पाञ्जलिः ॐ मार्कण्डेयाय नमः ।

ततः प्रार्थयेदनेन –

ॐ मार्कण्डेयाय मुनये नमस्ते महदायुषे ।
चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ॥
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरारोग्यसिद्धचर्थमस्माकं बरदो भव ॥
नराणामायुरारोग्यैश्वर्यसौख्यैः सुखप्रद ।
सौम्यमूर्ते नमस्तुभ्यं भृगुवंशवराय च ॥
महातपो मुनिश्रेष्ठ सप्तकल्पान्तजीवन ।
मार्कण्डेय नमस्तुभ्यं दीर्घायुष्यं प्रयच्छ मे ॥
रूपवान् वित्तवाँश्चैव श्रिया युक्तश्च सर्वदा ।
आयुरारोग्यसिद्ध्यर्थ प्रसीद भगवन् मुने ।
चिरजीवी यथा त्वं भो मुनीनां प्रबरो द्विजः ।
कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम् ।
नववर्षायुतं प्राप्य महता तपसा पुरा ।
सप्तकल्पकृतं येन ह्यायुर्मे संप्रयच्छतु ॥
मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः ।
चिरजीवी यथा त्वं भो भविष्येऽहं तथा मुने ॥

इति संप्रार्थ्य प्रणम्य गन्धपुष्पाक्षतैः –

ॐ प्रजापतये नमः, ॐ ब्रह्मणे नमः, ॐ शिवाय नमः, ॐ विष्णवे नमः, ॐ सूर्याय नमः, ॐ चन्द्राय नमः, ॐ क्षेत्रपालाय नमः, ॐ वास्तुपुरुषाय नमः, ॐ पृथिव्यै नमः, ॐ अद्भ्यो नमः, ॐ तेजसे नमः, ॐ वायवे नमः, ॐ आकाशाय नमः, इत्यष्टदिग्भागे पूजयेत् ॥

ततः –

यथा दीर्घायुषो यूयं मार्कण्डेयमुखाः शुभाः ।
तथा चिरजीविनं मां कुरुध्वं जन्मवासरे ॥
ॐ प्रीयन्तां देवताः सर्वाः पूजां गृह्णन्तु ता मम ।
प्रयच्छन्त्वायुरारोग्यं यशः सौख्यञ्च सम्पदः ॥
ॐ मन्त्रहीनं भक्तिहीनं क्रियाहीनं महामुने ।
यदर्चितं मया देव परिपूर्ण तदस्तु मे ॥
ॐ शक्तिस्त्व सर्वदेवानां मातेव हितकारिणी ।
नारायणीस्वरूपेण दीर्घमायुः प्रयच्छ मे ॥
ॐ गौरीपुत्रो यथा स्कन्दः सेनानी रक्षितस्त्वया ।
तथैव मम रक्षां त्वं कुरु देवि नमोस्तु ते ॥

इति प्रार्थ्य प्रणमेत् । ततः कुशादिकमादाय –

ॐ अद्येत्यादि मदीयवर्षवृद्धौ दीर्घायुष्ट्वकाम एतान् सफलशरावपूरिततिलान् विष्णुदैवतान् नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृज्ये । इत्युत्सृज्य ब्राह्मणेभ्यो दद्यात् ।

पुनः कुशहस्तः –

ॐ अद्येत्यादि मम वर्षवृद्धौ दीर्घायुष्ट्वकाम एतान् तिलान् वापयिष्ये इति सुक्षेत्रे तिलान् वपेत् ।

ततो जीवितमत्स्यमादाय कुशहस्तः –

ॐ अद्येत्यादि मदीयजन्मदिने दीर्घायुष्ट्वकामो जले मत्स्यमहं मोचयिष्ये ।

इति संकल्प्य,

ॐ अभयम्भवतामस्तु गच्छ मत्स्य यथासुखम् ।
जले भव यथा स्वस्थो मत्प्रसादात् सुखी भव ॥
जीव मत्स्य जलं चैव प्रविश्य मम हस्ततः ।
तव मोक्षप्रसादेन चास्तु मे चिरजीविता ॥

इति मन्त्रण जले मत्स्यान् मोचयेत् । ततः कुशादिकमादाय –

ॐ सोपकरणतण्डुलेभ्यो नमः ३,
ॐ ब्राह्मणाय नमः ३,

इति त्रिः सम्पूज्य –

ॐ अद्य मदीयजन्मदिने दीर्घायुष्ट्वकाम एतान् सोपकरणतण्डुलान् विष्णुदैवतान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृज्ये । इत्युत्सृज्य ब्राह्मणाय दद्यात् । एवमन्यान्यपि वस्तूनि दीर्घायुष्ट्वकाम उत्सृज्य ब्राह्मणाय दद्यात् ।
—————–
नोट (१) यदि मृन्मयी प्रतिमा चेद् तदा पीठिकोपरि संस्थाप्य –

ॐ मार्कण्डेयोसि इति कुशेन नामकरणं कृत्वा पुष्पहस्तो ध्यायेत् –

ॐ द्विभुजं जटिलं श्यामं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं गरो भक्त्या दण्डहस्तं विचिन्तयेत् ॥

ततः यजु. मनोजूतिरिति, छ० वाङ्मनःप्राण इति प्राणप्रतिष्ठामन्त्रेण

ॐ मार्कण्डेय इह सुप्रतिष्ठितो भव इति प्राणप्रतिष्ठां कुर्यात् ।
——————-

अथ हवनविधिः –

हस्तमात्रां भूमि कुशैः परिसमूह्य तान् कुशानैशान्यां परित्यज्य गोमयेनोपलिप्य तदुपरि प्रादेशमितीः तिस्रो लेखा उल्लिख्य ताभ्यो मृदमुद्धृत्य ऐशान्यां क्षिपेत् । ततः कांस्यपात्रेण अग्निमुपसमाधाय स्रुवेण आज्याहुतीजुहुयात् –

ॐ भूः स्वाहा, इदं भूः । ॐ भुवः स्वाहा, इदं भुवः । ॐ स्वः स्वाहा, इदं स्वः ।

ततः साज्यतिलैरष्टोत्तरशतमष्टौ वा पूर्वपूजितदेवतानामभिः प्रणवादिचतुर्थ्यन्तस्वाहान्तेन जुहुयात् । ततः ॐ मुर्द्धानं दिवोऽअरतिं पृथिव्या वैश्वानरऽमृत आजातमग्निम् । कवि सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः स्वाहा । इति पूर्णाहुतिं दत्त्वा त्र्यायुषं कुर्यात् ।

ततः तिलोपरि रक्तवस्त्राच्छादित कांस्यपात्र स्थित द्रवित शुद्धं गोघृतमादाय –

ॐ आव्यं सुराणामाहारमाज्यं पापहरं परम् ।
आज्यमध्ये मुखं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥
घृतं नाशयते व्याधिं घृतञ्च हरते रुजम् ।
घृतं तेजोऽधिकरणं घृतमायुः प्रवर्द्धते ॥

इति पठित्वा स्वमुखमवलोकयेत् । ततः –

ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतश्शान्ति प्रयच्छ मे ॥

इति तदुपरि किश्चिद्धिरण्यं प्रक्षिप्य गन्धपुष्पाक्षतैः –

ॐ कांस्यपात्रपूरितरक्तवस्त्राच्छादितघृताय नमः ३,
ॐ ब्राह्मणाय नमः ३,

इति त्रिः संपूज्य-जलेन सिक्त्या कुशत्रयतिलजलान्यादाय –

ॐ अद्येत्यादि मदीयजन्मदिने उपस्थितशरीराविरोधेन दीर्घायुरारोग्यसुतेजस्वित्वसुभगत्व सर्वपापप्रशमनपूर्वक दुष्टस्थानस्थितसूर्यादिनवग्रहसूचिता शेषारिष्ट प्रशमनप्रतिपत्त्याधिव्याधिदुःस्वप्नादि सकलदुर्निमित्तोपशान्त्यै तत्परिमितकांस्यपात्रस्थित गोघृतविन्दुसमसंख्यवर्षाविच्छिन्न नैरुज्य चिरंजीवित्वकामः, शुद्धकांस्यपात्रपूरित तत्परिमित सुवर्णसहित रक्तवस्त्राच्छादित गोघृतं विष्णुदैवतं यथानामगोत्राय ब्राह्मणायाहं ददे ।

पुनः

ॐ अद्य कृतैतच्छायापात्रदानकर्मप्रतिष्ठार्थमेतावद्द्रव्यमूल्यक हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहन्ददे इत्यु त्सृज्य प्रार्थयेदेभिः –

ॐ यानि कानि च पापानि जन्मान्तरकृतानि च ।
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥
यत्कृतं मे स्वकायेन मनसा बचसा त्वघम् ।
तत्सर्वं नाशमायातु कांस्यपात्रप्रदानतः ॥
ॐ कामधेनोः समुद्भूतं देवानामुत्तमं हविः ।
आयुर्विवर्धते दातुराज्यं पातु सदैव माम् ॥
ॐ हिरण्यगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥
ॐ रक्तवस्त्रमिदं यस्मादादित्यस्य प्रियं परम् ।
प्रदानादस्य मे शान्ति प्रयच्छन्तु दिवाकराः ॥

इति मन्त्रान् पठित्वा ब्राह्मणाय प्रतिपादयेत् ।

ततः तिलगुडसहितगोदुग्धमादाय इदं तिलगुडयुतदुग्धं –

ॐ मार्कण्डेयादिदेवताभ्यो नमः, इति दत्त्वा ॐ अञ्जल्यर्द्धमितं क्षीरं सतिलं गुडमिश्रितम् । मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥

इति मन्त्रेण किञ्चित्प्राश्याचम्य पूजितदेवान् प्रणम्य –

ॐ सर्वे देवाः पूजिताः स्थ क्षमध्वम् इति क्षमापयेन् न तु विसर्जयेत् ।

ततो नानाविधभोज्यमादाय –

ॐ अद्यामुकगोत्रोऽमुकशर्माऽहं वर्षवृद्ध्यै दीर्घायुष्ट्वकाम इदं नानाविधभोज्यं विष्णुदैवतं यथानामगोत्राय ब्राह्मणायाहं ददे ।

इति दत्त्वा दक्षिणाञ्च दद्यात् । ततः –

ॐ अद्य कृतैतत्सकल पूजादिकर्मप्रतिष्ठार्थमेतावद्द्रव्यमूल्यक हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे । इत्युत्सृज्य ब्राह्मणाय प्रतिपादयेत् यथाशक्ति भूयसीञ्च दद्यात् ।

इति जन्मदिनकृत्यम् ।

अथ संक्षिप्तजन्मदिनकृत्यम्

तत्र कृतसंयमः प्रथमं पञ्चदेवताः विष्णुञ्च सम्पूज्य पूजामारभेत् । कुशादिकमादाय –

ॐ अयेत्यादि वर्षवृद्धौ उपस्थितशरीराविरोधेन दीर्घायुष्ट्वकामः सपरिवारमार्कण्डेयादीनां पूजनमहं करिष्ये ।

इति संकल्प्य, अश्वत्थामानं बलिं व्यासं हनुमन्तं विभीषणं कृपं परशुरामं स्वजन्मनक्षत्रं जन्मतिथिं जन्ममासं जन्मवत्सरं प्रजापतिं च आवाह्य पञ्चोपचारैः संपूज्य, ॐ मार्कण्डेयाय नमः इति पाद्यादिभिर्यथासंभवोपचारैः सम्पूज्य

ॐ मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
चिरजीवी यथा त्वं भोः भविष्यामि तथा मुने ॥

इति प्रणम्य –

ॐ सतिलं गुडसम्मिश्रमञ्जल्यर्द्धमितं पयः ।
मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥

इति मन्त्रेण सतिलगुडमिश्रितगोदुग्धं समर्प्य, पश्चात् स्वयं पिबेत् । ततः सति संभवे ५३ पृष्ठोक्तविधिना* अग्निं संस्थाप्य, तिलाज्येन – ॐ मार्कण्डेयाय नमः स्वाहा, इति मन्त्रेण अष्टोत्तरशतमष्टौ वा आहुतीर्जुहुयात् । ततः पूर्णाहुतिं दत्त्वा, त्र्यायुषं कुर्यात् । ततः यथा शक्ति तिलान् ब्राह्मणेभ्यो दत्त्वा सुक्षेत्रे तिलान् वापयेत् । ततो जीवन्मत्स्यं जले प्रक्षेपयेत् । ततः पूजितदेवताः पूजिताः स्थ क्षमध्वम् इति विसृज्य ॐ अद्य कृतैतत्सपरिवारमार्कण्डेयपूजनादिसकलकर्मप्रतिष्ठार्थमेतावद्द्रव्यमूल्यकहिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे । इति ब्राह्मणाय दक्षिणां दत्त्वा ब्राह्मणमोजनं कारयित्वा स्वयं भुञ्जीत ।

इति संछिप्तजन्मदिनकृत्यम् ।

– पंडित रामचन्द्र झा (सम्पादक), स्रोत – वर्षकृत्य – द्वितीयभागः ।

संकलन – प्रवीण नारायण चौधरी, अपन ५४वाँ जन्मदिन पर ।

हरिः हरः!!

Related Articles