श्री महागणेशपञ्चरत्नस्तोत्रम् (श्रीशङ्कराचार्यकृतम्)

407

मुदाकराक्त मोदकं सदा विमुक्तिसाधकम्। कलाधरावतंसकं विलासि लोकरक्षकम्॥ अनायकैक नायकं विनाशितेभदैत्यकम्। नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरम्। नमत्सुरारि निर्जरं नताधिकापदुद्धरम्॥ सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्। महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥ समस्त लोकशङ्करं निरस्तदैत्यकुञ्करम्। दरेतरोदरं वरं वरेभवक्त्रमक्षरम्॥ कृपाकरं क्षमाकरं मुदाकरं यशस्करम्। मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्ति भाजनम्। पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्॥ प्रपञ्च नाशभीषणं धनञ्जयादि भूषणम्। कपोलदानवारणं भजे पुराणवारणम्॥४॥ नितान्तकान्तदन्तकान्ति – मन्तकान्तकात्मजम्। अचिन्त्य-रूपमन्तहीन – मन्तरायकृन्तनम्॥ हृदन्तरे निरन्तरं वसन्तमेव योगिनाम्। तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥५॥ महागणेश पञ्चरत्नमादरेण योऽन्वहम्। प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्॥ अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु – रष्टभूतिमभ्युपैति सो़ऽचिरात्॥६॥ हरि: हर:!!